श्री मंगलाष्टक स्तोत्रम्
अर्हन्तो भगवन्त इन्द्र महिताः, सिद्धाश् च सिद्धीश्वरा,
आचार्या जिन-शास-नोन् नति कराः, पूज्या उपाध्यायकाः ।
श्रीसिद्धान्त-सुपाठका मुनिवरा, रत्नत्रया -राधकाः,
पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु ते मंगलम्।।1।।
श्रीमन् नम्र-सुरा-सुरेन्द्र-मुकुट-, प्रद्योत-रत्नप्रभा,
भास्वत्-पाद-नखेन्-दवः प्रवचनाम्-,भोधीन्दवः स्थायिनः ।
ये सर्वे जिन-सिद्ध-सूर्यनुगतास्, ते पाठकाः साधवः,
स्तुत्या योगिजनैश् च पञ्च गुरवः, कुर्वन्तु ते मंगलम् ।।2।।
सम्यग्दर्शन-बोध-वृत्त-ममलं, रत्नत्रयं पावनं,
मुक्तिश्री नगराधि-नाथ – जिनपत्, -युक्तोऽपवर्गप्रदः ।
धर्मः सूक्ति-सुधा च चैत्यमखिलं, चैत्यालयः श्रयालयः,
प्रोक्तं च त्रिविधं चतुर्विध-ममी, कुर्वन्तु ते मंगलम् । 13 ।।
नाभेयादि – जिनाः प्रशस्त-वदनाः, ख्याताश् चतुर्विंशतिश्,
श्रीमन्तो भरतेश्वर-प्रभृतयो, ये चक्रिणो द्वादश।
विष्णु प्रतिविष्णु-लांगल-धराः, सप्तोत्तरा विंशतिस्,
त्रैकाल्ये प्रथितास् त्रिषष्टि-पुरुषाः कुर्वन्तु ते मंगलम् ।।4।।
ये सर्वौषधि-ऋद्धयः सुतपसां, वृद्धिंगताः पञ्च ये,
ये चाष्टांग-महा-निमित्त-कुशलाश्, चाष्टौ वियच्चारिणः ।
पञ्चज्ञान-धरास् त्रयोऽपि बलिनो ये बुद्धिऋद्धीश्वराः,
सप्तैते सकलार्चिता मुनिवराः, कुर्वन्तु ते मंगलम् ।। 5 ।।
ज्योति-र्व्यन्तर-भावनामरगृहे, मेरौ कुलाद्रौ स्थिताः,
जम्बूशाल्मलि चैत्य-शाखिषु तथा, वक्षार-रूप्याद्रिषु ।
इष्वाकार-गिरौ च कुण्डल-नगे, द्वीपे च नन्दीश्वरे,
शैले ये मनुजोत्तरे जिन-गृहाः, कुर्वन्तु ते मंगलम्।।6।।
कैलासे वृषभस्य निर्वृति-मही, वीरस्य पावापुरे,
चम्पायां वसुपूज्य सज्जिनपतेः, सम्मेद-शैलेर्हताम्।
शेषाणामपि चोर्जयन्तशिखरे,नेमीश्वरस्यार्हतो,
निर्वाणावनयः प्रसिद्ध-विभवाः, कुर्वन्तु ते मंगलम्।।7।।
सर्पोहार-लताभवत्यसिलता, सत्पुष्पदामायते,
सम्पद्येत रसायनं विषमपि-, प्रीतिं विधत्ते रिपुः ।
देवा यान्ति वशं प्रसन्न मनसः, किं वा बहुब्रूमहे,
धर्मा देव-नभोऽपि वर्षति नगैः, कुर्वन्तु ते मंगलम्।। 8 ।।
यो गर्भाव-तरोत्सवो भगवतां, जन्माभिषेकोत्सवो,
यो जातः परिनिष्क्रमेण विभवो, यः केवल-ज्ञान-भाक् ।
यः कैवल्य-पुर-प्रवेश-महिमा, सम्पादितः स्वर्गिभिः,
कल्याणानि च तानि पञ्च सततं, कुर्वन्तु ते मंगलम् ।। 9 ।।
इत्थं श्रीजिन-मंगलाष्टक-मिदं, सौभाग्य-सम्पत्करम्,
कल्याणेषु महोत्सवेषु सुधियस्, तीर्थंकराणामुषः ।
ये शृण्वन्ति पठन्ति तैश् च सुजनैर्-, धर्मार्थ-कामान्विता,
लक्ष्मीराश्रयते व्यपाय-रहिता, निर्वाण-लक्ष्मी-रपि । ।10।।
।। इति श्रीमंगलाष्टक-स्तोत्रम्।।